Ⅱ अपरम् अहम् ईश्वरस्यान्तिके तिष्ठतः सप्तदूतान् अपश्यं तेभ्यः सप्ततूर्य्योऽदीयन्त।
Ⅲ ततः परम् अन्य एको दूत आगतः स स्वर्णधूपाधारं गृहीत्वा वेदिमुपातिष्ठत् स च यत् सिंहासनस्यान्तिके स्थितायाः सुवर्णवेद्या उपरि सर्व्वेषां पवित्रलोकानां प्रार्थनासु धूपान् योजयेत् तदर्थं प्रचुरधूपास्तस्मै दत्ताः।
Ⅳ ततस्तस्य दूतस्य करात् पवित्रलोकानां प्रार्थनाभिः संयुक्तधूपानां धूम ईश्वरस्य समक्षं उदतिष्ठत्।
Ⅴ पश्चात् स दूतो धूपाधारं गृहीत्वा वेद्या वह्निना पूरयित्वा पृथिव्यां निक्षिप्तवान् तेन रवा मेघगर्ज्जनानि विद्युतो भूमिकम्पश्चाभवन्।
Ⅵ ततः परं सप्ततूरी र्धारयन्तः सप्तदूतास्तूरी र्वादयितुम् उद्यता अभवन्।
Ⅶ प्रथमेन तूर्य्यां वादितायां रक्तमिश्रितौ शिलावह्नी सम्भूय पृथिव्यां निक्षिप्तौ तेन पृथिव्यास्तृतीयांशो दग्धः, तरूणामपि तृतीयांशो दग्धः, हरिद्वर्णतृणानि च सर्व्वाणि दग्धानि।
Ⅷ अनन्तरं द्वितीयदूतेन तूर्य्यां वादितायां वह्निना प्रज्वलितो महापर्व्वतः सागरे निक्षिप्तस्तेन सागरस्य तृतीयांशो रक्तीभूतः
Ⅸ सागरे स्थितानां सप्राणानां सृष्टवस्तूनां तृतीयांशो मृतः, अर्णवयानानाम् अपि तृतीयांशो नष्टः।
Ⅹ अपरं तृतीयदूतेन तूर्य्यां वादितायां दीप इव ज्वलन्ती एका महती तारा गगणात् निपत्य नदीनां जलप्रस्रवणानाञ्चोपर्य्यावतीर्णा।
Ⅺ तस्यास्ताराया नाम नागदमनकमिति, तेन तोयानां तृतीयांशे नागदमनकीभूते तोयानां तिक्तत्वात् बहवो मानवा मृताः।
Ⅻ अपरं चतुर्थदूतेन तूर्य्यां वादितायां सूर्य्यस्य तृतीयांशश्चन्द्रस्य तृतीयांशो नक्षत्राणाञ्च तृतीयांशः प्रहृतः, तेन तेषां तृतीयांशे ऽन्धकारीभूते दिवसस्तृतीयांशकालं यावत् तेजोहीनो भवति निशापि तामेवावस्थां गच्छति।
ⅩⅢ तदा निरीक्षमाणेन मयाकाशमध्येनाभिपतत एकस्य दूतस्य रवः श्रुतः स उच्चै र्गदति, अपरै र्यैस्त्रिभि र्दूतैस्तूर्य्यो वादितव्यास्तेषाम् अवशिष्टतूरीध्वनितः पृथिवीनिवासिनां सन्तापः सन्तापः सन्तापश्च सम्भविष्यति।
<- Revelation 7Revelation 9 ->